निम्बः | ആര്യവേപ്പ് | ആയുര്‍വേദഗ്രന്ഥങ്ങളില്‍

ആയുര്‍വേദത്തിന്റെ പ്രമാണഗ്രന്ഥങ്ങളില്‍ ആര്യവേപ്പിന്റെ ഗുണങ്ങള്‍ ഇപ്രകാരം രേഖപ്പെടുത്തിയിരിക്കുന്നു:

1] ഗുണപാഠം

വേപ്പിന്‍റെ തൊലി കച്ചുളളു ശീതമാകയുമുണ്ടത്
കൃമികുഷ്ഠവിഷം പിത്തം നാശയേത് ദീപനം ഹിതം
അത്യുഷ്ണമല്ല വേപ്പെണ്ണ കച്ചിട്ടുള്ള രസം പരം
ധാതുക്കളെ കെടുപ്പിക്കും സന്നിപാതത്തിനും ഗുണം
വാതം കുഷ്ഠം കൃമികഫം വ്രണങ്ങള്‍ക്കും ഗുണം തുലോം

2] ശാലിഗ്രാമനിഘണ്ടു ¦ शालिग्रामनिघण्टु

निम्बवृक्षस्य पुष्पाणि पित्तघ्नानि विशेषतः।
तिक्तानि च कृमिघ्नानि तथा कफहराणि च॥
निम्बस्य सूक्ष्मशाखा तु कासश्वासार्शः गुल्महा।
कृमिमेहहरा प्रोक्ता फलं चामं लघु स्मृतम्॥
स्निग्धं च भेदकं चोष्णं मेहकुष्ठविनाशकम्।
आमं फलं रसे तिक्तं पाके तु कटुकं मतम्॥
स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत्।
निम्बबीजस्य मज्जा तु कुष्ठघ्नी कृमिनाशिनी॥
निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरं परम्।
निम्बवृक्षस्य पञ्चाङ्गं रक्तदोषहरं मतम्॥
पित्तं कण्डूं व्रणं दाहं कुष्ठं चैव विनाशयेत्।

3] നിഘണ്ടുരത്നാകരം ¦ निघण्टुरत्नाकरः

निम्बवृक्षो लघुः शीतस्तिक्तो ग्राही कटुः स्मृतः।
अग्निमान्द्यकरश्चैव व्रणशोधनकारकः॥
शोफपाककरो बाले हितो रुद्यो मतो बुधैः।
कृमिवान्तिव्रणकफशोफपित्तविषापहः॥
वातं कुष्ठं च हृद्दाहं श्रमं कासं ज्वरं तृषाम्।
अरुचिं रक्तदोषं च मेहं चैव विनाशयेत्॥
कोमलः पल्लवश्चास्य ग्राहको वातकारकः।
रक्तपित्तं नेत्ररोगं कुष्ठं चैव विनाशयेत्॥
जीर्णपर्णं विशेषेण व्रणनाशकरं मतम्।

4] ധന്വന്തരീനിഘണ്ടു ¦ धन्वन्तरिनिघण्टु

निम्बस्तिक्तरसः शीतो लघुः श्ळेष्मास्रपित्तनुत्।
कुष्ठकण्डूव्रणान् हन्ति लेपहारादिशीलितः॥
अपक्वं पाययेच्छोफं व्रणं पक्वं विशोधयेत्।
नात्युष्णं निम्बजं तैलं कृमिकुष्ठकफापहम्॥
वातरक्तप्रशमनं मदालक्ष्मीज्वरापहम्।

5] കൈയ്യദേവനിഘണ്ടു ¦ कैय्यदेवनिघण्टु

निम्बस्तिक्तः कटुः पाके लघुः शीतोऽग्निवातकृत्।
ग्राह्यहृद्यो जयेत् पित्तकफमेहज्वरकृमीन्॥
कुष्ठकासारुचिश्वासहृल्लासश्वयथुव्रणान्।
ग्राहि प्रवाळं निम्बस्य रक्तपित्तकफकृमीन्॥
कुष्ठघ्नं वातजननं नेत्ररोगान् विनाशयेत्।
तद्वत् पत्राणि निम्बस्य व्रणघ्नानि विशेषतः॥
शलाका निम्बपत्रस्य कासश्वासविनाशिनी।
कृमिघ्ना तु वरिष्ठा स्यात् कुष्ठज्वरविनाशिनी॥
चक्षुष्यं निम्बपुष्पं च कृमिपित्तविषप्रणुत्।
वातळं कटुपाकं स्यात् सर्वारोचकनाशनम्॥
फलं तिक्तं रसे पाके कटुकं भेदनं लघु।
अरूक्षमुष्णं कुष्ठघ्नं गुल्मार्शः कृमिमेहनुत्॥
निम्बस्य पक्वं मधुरं सतिक्तं स्निग्धं फलं शोणितपित्तरोगे।
कफे प्रशस्तं नयनामयघ्नं क्षतक्षयघ्नं गुरु पिच्छिलं च॥
निम्बबीजस्य मज्जा च कृमिकुष्ठविशोधनः।
नात्युष्णं निम्बजं तिक्तं कृमिकुष्ठकफप्रणुत्॥
अभ्यङ्गान्नावनात् क्षीरभोजिनः पलितापहम्।

6] സോഢലനിഘണ്ടു ¦ सोढलनिघण्टु

निम्बो नियामनो नेता पिचुमन्दः सुतिक्तकः।
अरिष्टः सर्वतोभद्रः सुभद्रः पारिभद्रकः॥
शुकप्रियश्चीर्णपर्णो यवनेष्टो वरत्वचः।
छर्दनो हिंगुनिर्यास पीतसारो रविप्रियः॥

7] ഭാവപ്രകാശം ¦ भावप्रकाशः

निम्बः स्यात् पिचुमर्दश्च पिचुमन्दश्च तिक्तकः।
अरिष्टः पारिभद्रश्च हिंगुनिर्यास इत्यपि॥

निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत्।
अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत्॥
व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत्।
निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत्॥
वातळं कटुपाकं च सर्वारोचककुष्ठनुत्।
नैम्बं फलं रसे तिक्तं पाके तु कटु भेदनम्॥
स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शः कृमिमेहनुत्॥

8] രാജനിഘണ്ടു ¦ राजनिघण्टु

अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः।
काकफलः कीरेष्टो नेतारिष्टश्च सर्वतोभद्रः॥
धमनो विशीर्णपर्णो पवने ष्टः पीतसारकः शीतः।
वरतिक्तोऽरिष्टफलो ज्येष्ठामलकश्च हिंगुनिर्यासः॥
छर्दनश्चाग्निधमनो ज्ञेया नाम्ना तु विंशतिः।

प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये।
वलासभिद्  बहुविषपित्तदोषजिद् विशेषतो हृदयविदाहशान्तिकृत्॥
निम्बतैलं तु नात्युष्णं कृमिकुष्ठकफापहम्।

Advertisements

About Anthavasi

The Indweller
This entry was posted in AYURVEDA | ARTICLES, ഔഷധസസ്യങ്ങള്‍ | MEDICINAL PLANTS, Uncategorized and tagged , . Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s